रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
संस्कृतभारत्याः व्रजप्रान्तस्य प्रबोधनवर्गः समुद्घाटित:

आगरा। 05जून 2024 तमे दिनाङ्के संस्कृतभारत्याः व्रजप्रान्तस्य प्रबोधनवर्गः समुद्घाटितः । कमलानगर-सरस्वती- शिशुमन्दिरे वर्गस्य उद्घाटनं दीपप्रज्वालनेन संस्कृतभारत्याः पश्चिम-उत्तर-प्रदेशस्य क्षेत्रसंगठनमंत्री मान्यवर: देवेन्द्रमहोदयः कृतवान् । अस्मिन् अवसरे स्वकीये अध्यक्षीये उद्वोधने प्रान्ताध्यक्षा प्रो० तुलसीदेवी अवोचत् यत् संस्कृतभाषायाः प्रचार- प्रसारस्य आवश्यकता अर्हर्निशं विद्यते । संस्कृतभारती एकमान्त्रं संगठनं दृश्यते यत् सर्वकारीयसहायतां विना समाजस्य बलेन भारतीयसंस्कृतेः संरक्षणम् विदधाति । विशिष्टाथितिः दीनदयालगौ – अनुसन्धानस्य मंत्रिवर्यः श्रीमान् हरिशंकरमहोदयः अवदत् यत् संस्कृतं विना भारतीय संस्कृतेः कल्पनां कर्तुं वयं न समर्थाः । ब्रजप्रान्तमंत्री डाॅ. धर्मेन्द्र-अग्रवालमहोदयः प्रबोधनवर्गस्य प्रास्ताविकीं प्रस्तौतवान् । अस्मिन् अवसरे प्रान्तप्रशिक्षणप्रमुखः सतीशमहोदयः , ब्रजप्रान्तसंगठनमंत्री श्रीमान् नरेन्द्रभागीरथी , लक्ष्मीनारायण: , वर्गाधिकारी श्री रघुवीर: , ओ३मप्रकाशबंसल, हरस्वरूप , डाॅ .जगदीशशर्मा , गंगाधर; अरोडा प्रमुखरूपेण उपस्थिताः आसन् । कार्यक्रमस्य संचालनं प्रान्तसहमंत्री , डाॅ गौरवगौतममहोदयः कृतवान् । वर्गे एकोनचत्वारिंशत् शिक्षार्थिन: उपस्थिताः सन्ति । #sanskritsamachar

⚠️ दोषाः सन्ति। अतः अवधानेन पठत।
Sanskrit Samvad – 1st to 15th May 24.pdf
808.1 KB
संस्कृतसंवादः । वर्षम् १३ अङ्कः २१। मेमासस्य प्रथमतः पञ्चादशदिनाङ्कपर्यन्तम्॥
Sanskrit Samvad – 16th to 31st May 24.pdf
951.7 KB
संस्कृतसंवादः । वर्षम् १३ अङ्कः २२। मेमासस्य षोडशतः त्रिंशदिनाङ्कपर्यन्तम्॥
Sanskrit Samvad – 1st to 15th June 24.pdf
1.4 MB
संस्कृतसंवादः । वर्षम् १३ अङ्कः २३। जून्मासस्य प्रथमतः पञ्चादशदिनाङ्कपर्यन्तम्॥
SANSKRIT SAPTHAGIRI JUne 2024.pdf.pdf
6.3 MB
सप्तगिरिः । एकादशाङ्कश्च तृतीयं संस्करणञ्च। जून्मासः २०२४॥

⚠️ दोषाः सन्ति। अतः अवधानेन पठत।
सम्भाषणसन्देशः_ज्येष्ठमासः_२०२४।.pdf
15 MB
सम्भाषणसन्देशः । ज्येष्ठमासः। जून् २०२४।
Hitāya Vol.19.pdf
418.8 KB
हिताय । उनविंशाङ्कः। जनुवरिमासतः मार्चमासर्यन्तम् २०२४।
dipasikha_jan_24.pdf
3.2 MB
दीपशिखा । षष्ठाङ्कः जनुवरिमासः २०२४।
Saturday, June 8, 2024

प्रशासनरूपीकरणाय राष्ट्रपतिः मोदिनम् आमन्त्रयत्।
प्रशासनरूपीकरणाय मोदिवर्ये राष्ट्रपतिभवने प्राप्ते।
शपथवाचनं श्वः सायं राष्ट्रपतिभवने।
नवदिल्ली> गतदिने प्राचीनसंसदीयभवनस्य केन्द्रमण्डपे समायोजिते एन् डि ए सख्यस्य उपवेशने नरेन्द्रमोदिवर्यः नेतृरूपेण चितः। अनन्तरं सायं सख्यनेतृभिः साकं राष्ट्रपतिभवनं प्राप्तवान् नरेन्द्रमोदी प्रशासनरूपीकरणाय अधिकारवादमुन्नीतवान्। ततः सर्वकाररूपीकरणाय राष्ट्रपतिः द्रौपदी मुर्मुः मोदिनमामन्त्रयच्च।
नूतनसर्वकारस्य शपथवाचनं रविवासरे सायं ७. १५ वादने राष्ट्रपतिभवने सम्पत्स्यति।

#SampratiVartah