संस्कृतवाहिनी | Sanskrit Channel | PS
2.48K subscribers
341 photos
1.19K videos
10 files
1.33K links
( Prashasak Samiti Sanskrit Telegram Channel )

📢 @PrashasakSamitiNetwork - Largest Hindu Social Media Network
Download Telegram
श्रीरामायणकथा, किष्किन्धाकाण्डम्।
(द्वितीयः सर्गः)
रामसुग्रीवयोः मित्रता।


हनुमान् रामलक्ष्मणौ नीत्वा किष्किन्धापर्वतस्य मलयशिखरं प्राप्नोत् यत्र सुग्रीवः अन्यैः मन्त्रिभिः सह आसीत्। तत्र सुग्रीवेण सह रामलक्ष्मणयोः परिचयं कारयन् हनुमान् अवदत् हे महाप्राज्ञ! अयोध्यायाः महाराजदशरथस्य ज्येष्ठपुत्रः महापराक्रमी श्रीरामचन्द्रः तस्य अनुजेन लक्ष्मणेन सह अत्र आगच्छत्। पञ्चवट्यां निवासकाले तस्य पत्नीं सीतां लङ्कायाः राजा रावणः अपहृत्य अनयत्। तस्याः अन्वेषणार्थं श्रीरामचन्द्रः भवतः साहाय्यम् इच्छाति। सः च भवता सह मित्रतां कर्तुम् इच्छति। भवान् तस्य मित्रताप्रस्तावम् अङ्गीकृत्य तस्य यथोचितं सत्कारं कुर्यात्, यतः सः महान् गुणवान्, पराक्रमी, धर्मात्मा च विद्यते। तौ उभावपि अस्माकं कृते अत्यन्तं पूजनीयौ स्तः।

रामलक्ष्मणयोः परिचयं प्राप्य प्रसन्नचित्तः सुग्रीवः अवदत् हे प्रभो! भवान् धर्मज्ञः, परमतपस्वी, सर्वेषु दयां कुर्वाणः चास्ति। भवान् नरः भूत्वा अपि मादृशेन वानरेण सह मित्रतां कर्तुम् इच्छति इति मम परमसौभाग्यम् अस्ति।भवता सह मित्रतां कृत्वा ममैव उत्तमः लाभः भविष्यति। मम हस्तौ भवता सह मित्रतायै प्रसृतौ स्तः। मम एतौ हस्तौ भवान् भवतः हस्ताभ्यां गृहीत्वा आवयोः मित्रतायाः दृढसम्बन्धं करोतु।

सुग्रीवस्य वचनं श्रुत्वा रामः अत्यन्तं प्रसन्नः सन् सुग्रीवस्य हस्तौ गृहीत्वा पुनः प्रेमपूर्वकं तं हृदयेन सह असजत्। हनुमान् भिक्षुकवेषं त्यक्त्वा अग्निं प्राज्वलयत्। रामः सुग्रीवः च तस्य अग्नेः प्रदक्षिणं कृत्वा मित्रतायाः शपथं गृहीत्वा एकः अन्यस्य मित्रम् अभवताम्। ततः परं रामः सुग्रीवः स्वीये स्वीये आसन्दे उपविश्य परस्परं वार्तालापं कुरुतः स्म। सुग्रीव अवदत् हे राम! मम ज्येष्ठः भ्राता बालिः मां गृहात् निष्कास्य मम पत्नीम् अपाहरत्, मम राज्यं च अध्यगृह्णात्। सः अत्यधिकः शक्तिशाली अस्ति। अहं तस्मात् भयभीतः सन् अस्य ऋष्यमूकपर्वतस्य मलयगिरिप्रखण्डे निवासं करोमि। भवान् अत्यन्तं पराक्रमी तेजस्वी चास्ति। भवान् मह्यम् अभयदानं प्रदाय बालेः भयात् मां मुक्तं कारयतु।

सुग्रीवस्य दीनवचनं श्रुत्वा रामः अवदत् हे सुग्रीव! सखा तु सख्युः उपकाराय एव भवति। अहं मम तीक्ष्णबाणेन भवतः पत्न्याः अपहरणं कुर्वाणस्य बालेः वधं करिष्यामि। सः मृतः अभवत् इत्येव इदानीं भवान् मन्यताम्। सुग्रीवः प्रसन्नतापूर्वकम् अवदत् हे राम! मम मन्त्रिषु श्रेष्ठः हनुमान् भवतः विपत्तेः विषये मां सर्वम् अवदत्। भवतः पत्नी सीता आकाशे वा भवतु, पाताले वा भवतु, अहम् अवश्यं तस्याः अन्वेषणं कारयित्वा सा कुत्र अस्ति इति भवते सूचनां दास्यामि। न केवलं रावणः, अपितु इन्द्रादयः देवाः अपि मम वानराणां दृष्टितः सीतां गूहितुं न शक्ष्यन्ति। हे राघव! केभ्यश्चिद् दिनेभ्यः पूर्वं कश्चन राक्षसः काञ्चित् स्त्रियम् अपहृत्य नयति स्म। तदानीं वयम् अत्रैव आस्म। तदा वयं तस्याः मुखात् हा राम! हा लक्ष्मण! इत्येवं शब्दम् अशृण्म। मम अनुमानं यत् सा एव सीता हि आसीत्। ताम् अहं सम्यग् न अपश्यम्।

अस्मान् दृष्ट्वा सा कानिचन वस्त्राभूषणानि अधः अपातयत्। तानि आभूषणानि अस्माकं पार्श्वे सुरक्षितानि सन्ति। भवान् तानि दृष्ट्वा जानातु, किं तानि सीतायाः सन्ति उत न। एवमुक्त्वा सुग्रीवः कस्मैचिद् वानराय तानि वस्त्राभूषणानि आनेतुम् आज्ञाम् अददात्। तानि वस्त्राभूषणानि दृष्ट्वा रामः अत्यन्तं शोकविह्वलः अभवत्। तस्य नेत्राभ्यां च अश्रूणि प्रवहन्ति स्म। सः च किञ्चित् कालं यावत् मूर्च्छितः भूत्वा भूमौ अपतत्। यदा रामः चेतनां प्राप्नोत् तदा लक्ष्मणम् अब्रवीत् । हे लक्ष्मण! सीतायाः एतानि आभूषणानि दृष्ट्वा त्वम् अभिजानीहि। राक्षसद्वारा सा अपहृता अभवत् इति कारणतः सीता तस्याः एतानि आभूषणानि भूमौ अपातयत्।

लक्ष्मणः अब्रवीत् भ्रातः! एतेषाम् आभूषणानां मध्ये नाहं हस्तयोः कङ्कणानि अभिजानामि, नाहं कण्ठस्य हारम् अभिजानामि, न चाहं तस्याः मस्तकस्य अन्यानि आभूषणानि अभिजानामि। यतः अहम् अद्यावधि तस्याः हस्तौ मुखं च कदापि न अपश्यम्। परन्तु आम्! यदहं तस्याः नित्यं चरणवन्दनं करोमि इत्यतः तस्याः एतद् नूपुरम् अवश्यम् अभिजानामि। एतद् नूपुरं तु भ्रातृजायायाः एव।
- प्रदीपः!

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (श्रद्धातयविभाग योग)

अध्याय - १७ , श्लोक - २८

गुरुवार , २४/११/२०२२, मार्गशीर्ष(अगहन), शुक्लपक्ष, प्रतिपदा

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)

अध्याय - १८ , श्लोक - ०१

शुक्रवार , २५/११/२०२२, मार्गशीर्ष(अगहन), शुक्लपक्ष, द्वितीया

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
पवित्रं जलमन्दिरम्। बाली, इण्डोनेशिया।

अद्यापि विश्वस्य पृथक् पृथग् देशेभ्यः श्रद्धालवः तत्रत्ये पवित्रे जले स्नातुं समायान्ति। सममेव पर्यटकाः अपि तत्स्थानस्य सुन्दरतां दृष्ट्वा आश्चर्यचकिताः भवन्ति।
श्रीरामायणकथा, किष्किन्धाकाण्डम्।
(चतुर्थः सर्गः)
बालिवधः।


तदन्तरं ते सर्वे बालेः राजधानीं किष्किन्धापुरीम् अगच्छन्। तत्र गत्वा रामः सुग्रीवम् अवदत्, भवान् बालिं युद्धाय प्रेरयतु, तेन सह च निर्भयेण युद्धं करोतु, अहं वने निलीय उपविशामि। रामस्य वचनं श्रुत्वा उत्साहितः सुग्रीवः गर्जनं कृत्वा युद्धं कर्तुं बालिम् आह्वयत्। सुग्रीवस्य सिंहनादं श्रुत्वा बालिः अत्यन्तं कुपितः अभवत्। कुपितः बालिः वायुवेगेन बहिः आगत्य सुग्रीवस्य उपरि आक्रमणम् अकरोत्। बालिसुग्रीवयोः मध्ये भयङ्करं युद्धम् आरब्धम्। तौ उभावपि भ्रातरौ उन्मत्तौ भूत्वा एकः अपरं प्रति पादप्रहारं मुष्टिप्रहारं च कुरुतः स्म।

श्रीरामचन्द्रः बालिं हन्तुं धनुर्बाणाभ्यां सज्जः अभवत्, किन्तु तयोः उभयोः भ्रात्रोः आकारः आकृतिः च समानौ इत्यतः तयोः कः बालिः इति श्रीरामः अभिज्ञातुं न अशक्नोत्, तदर्थं श्रीरामः बाणं न अक्षिपत्। बालेः प्रहारं सुग्रीवः सोढुं न अशक्नोत्, अतः सः ततः ऋष्यमूकपर्वतं प्रति पलायत। तदानीं रामः लक्ष्मणः अन्ये वानराः च सुग्रीवस्य समीपम् अगच्छन्। रामं सम्मुखे दृष्ट्वा सुग्रीवः दुःखितः भूत्वा अवदत्, बालिना सह युद्धं कर्तुं मां प्रेषयित्वा भवान् लीलां पश्यति स्म। वदतु! भवान् एवं किमर्थम् अकरोत्? यदि भवता मम साहाय्यं न करणीयम् आसीत् तर्हि स्पष्टं वक्तव्यम् आसीत् यद् अहं बालिं न हनिष्यामि! तदा तु अहं तस्य समीपं न अगमिष्यम्।

सुग्रीवस्य तत् कटुवचनं श्रुत्वा रामः अत्यन्तं नम्रस्वरेण अवदत् हे सुग्रीव! क्रोधं त्यक्त्वा मम वार्तां शृणोतु! भवतोः उभयोः भ्रात्रोः रूपम्, आकारः, गतिः, आकृतिः इत्यादयः सर्वे समानाः सन्ति। अहं भवतोः मध्ये कः बालिः इति अभिज्ञातुं न अशक्नवम्, अतः बाणं न अक्षिपम्। यदि मम बाणः बालेः स्थाने भवन्तम् अभेत्स्यत् तर्हि आजीवनम् अहं कमपि मम मुखं दर्शयितुं न अशक्ष्यम्। हे वानरेश्वर! भवतः पृथक् परिचयः भवतु तदर्थं भवान् किमपि चिह्नं धृत्वा युद्धं कर्तुं पुनः गच्छतु यस्मात् अहं भवन्तम् अनायासेन अभिज्ञातुं शक्नुयाम्।

एवमुक्त्वा हि रामः लक्ष्मणम् अब्रवीत् हे लक्ष्मण! एतानि उत्तमलक्षणयुक्तानि गजपुष्पीलतापुष्पाणि सन्ति। एतानि चित्वा तैः मालां निर्माय महात्मनः सुग्रीवस्य कण्ठे धारय। लक्ष्मणः तथैव अकरोत्। सुग्रीवः च पुनः बालिना सह युद्धं कर्तुम् अगच्छत्। तदानीं सुग्रीवः द्विगुणोत्साहेन सिंहनादं कृत्वा बालिं युद्धाय आह्वयत्, यत् श्रुत्वा बालिः अपि पुनः वायुवेगेन बहिः आगन्तुम् उद्यतः अभवत्। किन्तु तदानीं तस्य पत्नी तारा भयभीता भूत्वा बालिं निवारयन्ती अवदत् हे वीरश्रेष्ठ! इदानीं युद्धाय भवतः गमनं श्रेयस्करं नास्ति। पूर्वं सुग्रीवः भवतः ताडनं प्राप्य पलायत। अधुना सः पुनः भवता सह युद्धं कर्तुम् आह्वयति।

अनेन मम मनसि शङ्का उत्पद्यते। अहं मन्ये यत् सः कञ्चन प्रबलसहायकं प्राप्नोत्। अपिच सः तस्यैव सामर्थ्येन भवता सह पुनः युद्धं कर्तुम् आह्वयति। अहं राजकुमार-अङ्गदात् सूचनां प्राप्नवं यद् अयोध्यायाः अजेयराजकुमाराभ्यां रामलक्ष्मणाभ्यां सह तस्य मित्रता अभवत्। सम्भवतः तौ एव सुग्रीवस्य साहाय्यं कुरुतः। रामस्य पराक्रमस्य विषये अहम् अशृणवम्। सः शत्रुं निमेषाभ्यन्तरे धराशायीं करोति। यदि सः स्वयं सुग्रीवस्य साहाय्यं करोति तर्हि तेन सह भवतः सङ्ग्रामः न उचितः। भवतः जीवनं सङ्कटे पतेत्।

अतः एतदेव उचितं यद् भवान् अस्मिन् अवसरे सुग्रीवेण सह वैरतां त्यक्त्वा तेन सह मित्रतां कुर्यात्। तस्मै च युवराजपदं ददातु। सः तु भवतः कनिष्ठः भ्राता अस्ति। संसारेऽस्मिन् भ्रातुः समानः अन्यः कश्चिदपि हितैषी न भवति। अस्मिन् अवसरे तेन सह भवान् मित्रतां कुर्यात्, एतदेव भवतः कल्याणाय भवेत्।

तारायाः तादृशं बोधवचनं श्रुत्वा बालिः अवदत् हे वरानने! अहं सुग्रीवस्य प्रत्याह्वानं श्रुत्वा कापुरुषवद् गृहे स्थातुं न शक्नुयाम्, न च तस्मात् भीतः भूत्वा तेन सह मित्रतां कर्तुं शक्नुयाम्। श्रीरामचन्द्रस्य विषये अहमपि जानामि। सः धर्मात्मा अस्ति, कर्तव्यम् अकर्तव्यं च सः सम्यग् जानाति। सः पापकर्म कदापि कर्तुं न शक्नुयात्। मां प्रति तव स्नेहः भक्तिः इत्यनयोः त्वं प्रदर्शनम् अकरोः। इदानीं त्वं मह्यं बाधां न देहि। अहं सुग्रीवम् अवश्यं सम्मुखीकुर्याम्, तस्य अहङ्कारं च चूर्णं करिष्यामि। युद्धे अहं विजयं प्राप्स्यामि अवश्यं किन्तु तस्य प्राणान् न हरिष्यामि।

एतावद् उक्त्वा हि बालिः सुग्रीवस्य समीपम् अगच्छत् तेन सह च मल्लयुद्धं कर्तुम् आरभत। तौ उभावपि मुष्टिप्रहारं पादप्रहारं च कुरुतः स्म। रामः यदा अपश्यत् यत् सुग्रीवस्य शक्तिः क्षीणा भवति स्म तदा सः विषधरसर्पवद् धनुषि एकं बाणं संस्थाप्य बालिं लक्ष्यीकृत्य अक्षिपत्। टङ्कारध्वनिना सह सः बाणः गत्वा बालेः वक्षःस्थलम् अभिनत् यस्मात् सः चेतनाशून्यः भूत्वा भूमौ अपतत्।
- प्रदीपः!

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)

अध्याय - १८ , श्लोक - ०२

शनिवार , २६/११/२०२२, मार्गशीर्ष(अगहन), शुक्लपक्ष, तृतीया

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
श्रीरामायणकथा, किष्किन्धाकाण्डम्।
(पञ्चमः सर्गः)
बालिरामयोः संवादः।


बालिः भूमौ अपतत् इति दृष्ट्वा रामः लक्ष्मणः च तस्य समीपम् अगच्छताम्। बालिः चेतनां प्राप्य यदा तस्य पुरतः रामलक्ष्मणौ अपश्यत् तदा सः कठोरस्वरेण अवदत् हे रघुनन्दन! भवान् निगुह्य यद् ममोपरि आक्रमणम् अकरोत्, तस्मात् भवान् कं गुणं प्राप्नोत्? किं भवान् महतः यशसः उपार्जनम् अकरोत्? यद्यपि मम पत्नी तारा सुग्रीवस्य भवतः च मध्ये मित्रता अभवत् इति विषये माम् अवदत्, तथापि अहं भवतः वीरता, शौर्यम्, पराक्रमः, धर्मपरायणता, न्यायशीलता इत्यादयः गुणाः सन्ति इति मत्वा तस्याः वार्तां न अशृणवम्, तां च अहम् अवदं यद् न्यायशीलः रामः कदापि अन्यायं न करिष्यति। अद्य अहं ज्ञातवान् यत् भवतः मतिः भ्रष्टा अभवत्। भवान् केवलं लोकप्रदर्शनाय धर्मस्य एतं वेषम् अधरत्। वास्तवेन तु भवान् अधर्मी अस्ति। भवान् साधुपुरुषस्य वेषेण कश्चन पापी अस्ति। भवता सह मम काचिदपि शत्रुता नास्ति, तथापि भवान् क्षत्रियं लज्जयितुम् एतत् कर्म किमर्थम् अकरोत्?

भवान् नरेशः अस्ति। साम, दाम, दण्डः, भेदः, दानम्, क्षमा, सत्यम्, धैर्यम् , विक्रमः, इत्यादयः गुणाः राज्ञः भवन्ति। कश्चिदपि राजा कस्मै अपि निरपराधिने दण्डं न ददाति। पुनः भवान् मम वधं किमर्थम् अकार्षीत्?हे राजकुमार! यदि भवान् मम समक्षम् आगत्य मया सह युद्धम् अकरिष्यत् तर्हि भवान् निश्चयेन मम हस्ताभ्याम् अमरिष्यत्। यम् उद्देश्यं नीत्वा भवान् सुग्रीवस्य साहाय्यं करोति, तद्विषये यदि भवान् माम् अवदिष्यत् तर्हि अहम् एकदिनाभ्यन्तरे मिथिलेशकुमारीम् अन्विष्य भवतः समक्षम् अनेष्यम्। भवतः पत्न्याः अपहरणं कुर्वाणस्य दुरात्मनः राक्षसरावणस्य ग्रीवायां रज्जुं बद्ध्वा भवतः समक्षम् अनेष्यम्। भवान् अधर्मपूर्वकं मम वधम् अकार्षीत्।

बालेः कठोरवचनानि श्रुत्वा रामः अवदत् हे वानर! धर्मः,अर्थः, कामः, लौकिकसदाचारः, इत्यादीनां विषये तव ज्ञानं नास्ति। तव वानरोचितचपलतावशतः त्वं वृथा हि मह्यं कुप्यसि। अहं तव वधम् अकारणं न अकरवम्, न च व्यक्तिगतवैरतायाः कारणतः। हे सौम्य! पर्वतः, वनम्, काननम्, इत्यादिभिः युक्तं सम्पूर्णं भूमण्डलं इक्ष्वाकुवंशस्य राज्ञाम् अस्ति। अस्मिन् समये धर्मात्मा राजा भरतः इमां पृथ्वीं पालयति। तस्य आज्ञया अहं सम्पूर्णपृथिव्यां विचरणं कुर्वन् धर्मस्य प्रचारम्, साधूनां रक्षणम्, दुष्टानां च दमनं करोमि।‌ त्वं स्वजीवने केवलं कामाय प्राधान्यम् अयच्छः, राजोचितमार्गे च कदापि त्वं स्थिरः न आसीः। कनिष्ठः भ्राता, पुत्रः, शिष्यः, इत्येते त्रयः अपि पुत्रतु्ल्याः भवन्ति। त्वम् एतद् धर्माचरणं त्यक्त्वा तव कनिष्ठभ्रातुः सुग्रीवस्य पत्न्याः रुमायाः हरणम् अकरोः। धर्मानुसारं सा तव पुत्रवधूः अस्ति। उत्तमे कुले उत्पन्नः क्षत्रियः, राज्ञः च प्रतिनिधिः इत्यतः त्वादृशाय महापापिने दण्डप्रदानं मम कर्तव्यम् आसीत्। यः पुरुषः पुत्री, भगिनी, अथवा अनुजवधूः च तासां समीपं कामबुद्ध्या गच्छति, तस्य वधः एव तस्य कृते उचितः दण्डः मन्यते। अतः अहं तव वधम् अकार्षम्।

हे वानरश्रेष्ठ! मम अस्य कार्यस्य कृते मम मनसि मनागपि सन्तापः नास्ति। अहं तुभ्यं तव प्राक्तनपापस्य दण्डं प्रदाय भाविकालस्य कृते त्वां पापमुक्तम् अकरवम्। इदानीं त्वं पापमुक्तः सन् स्वर्गं गमिष्यसि।

रामस्य युक्तियुक्तं तर्कपूर्णं वचनं श्रुत्वा बालिः हस्तौ योजयित्वा अवदत् हे राघव! भवतः कथनं सत्यम् अस्ति। मम मृत्युः भविष्यति इत्यतः मम दुःखं नास्ति। मम पुत्रः अङ्गदः मम अत्यन्तं प्रियः, यस्य मम अतीव चिन्ता अस्ति। सः इदानीं बालकः, तस्य बुद्धिः प्रतिष्ठिता न अभवत्। तम् अहं भवते समर्पयामि। भवान् सुग्रीववद् मम पुत्राय अपि अभयं ददातु इत्येव मम प्रार्थना अस्ति। एतावद् उक्त्वा हि बालिः तूष्णीम् अभवत्, तस्य च मृत्युः अभवत्।
- प्रदीपः!

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)

अध्याय - १८ , श्लोक - ०३

शनिवार , २७/११/२०२२, मार्गशीर्ष(अगहन), शुक्लपक्ष, चतुर्थी

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
श्रीरामायणकथा, किष्किन्धाकाण्डम्।
(षष्ठः सर्गः)
बालिपत्न्याः तारायाः विलापः।


बालेः मृत्योः संवादं यदा तस्य पत्नी तारा प्राप्नोत् तदा सा अत्यन्तम् उद्विग्ना अभवत्। सा रुदती तत्र अगच्छत् यत्र बालेः मृतशरीरं पतितम् आसीत्। तारा अङ्गदः च बालेः शवं सङ्क्त्वा रुदितः स्म। तयोः तादृशं रोदनं दृष्ट्वा सुग्रीवस्य महद् दुःखम् अभवत्। तस्य नेत्राभ्यां च अश्रूणि प्रवहन्ति स्म।

तारा बालेः शवं सङ्क्त्वा विलापं करोति स्म, हे आर्यपुत्र! भवादृशस्य पराक्रमिणः वीरस्य हननं रामः निगुह्य अकरोत् यच्च अत्यन्तं निन्दनीयं कर्म अकरोत्। हे नाथ! भवान् तूष्णीं किमर्थम् अस्ति? भवान् स्वीयं पुत्रं कस्य आश्रये स्थापयित्वा अगच्छत्? पश्यतु, सः कथं रोदिति! हे आर्यपुत्र! अद्य भवान् कथं निर्मोहः अभूत्? हे स्वामिन्! भवान् माम् अङ्गदं च कस्य आश्रये त्यक्त्वा अगच्छत्? हे सुग्रीव! अद्य तव मनोरथः पूर्णः अभूत्। अधुना आनन्देन राज्यस्य सुखं भुङ्क्ष्व।

अद्य मत्समीपे मम पुत्रः, ऐश्वर्यम् इत्यादिकं सर्वम् अस्ति चेदपि अहं विधवात्वेन संसारे तिरस्कृतजीवनं यापयिष्यामि। पुत्र अङ्गद! तव धर्मप्रेमिणः पितुः अन्तिमं दर्शनं कुरु। यमलोकं गच्छतः तव पितुः त्वं हस्तौ योजयित्वा अभिवादनं कुरु। हे स्वामिन्! पश्यतु, भवतः पुत्रः भवतः पुरतः हस्तौ योजयित्वा तिष्ठति। भवान् किमर्थं तस्मै आशीर्वादं न ददाति? अद्य भवान् अस्मिन् युद्धरूपियज्ञे मां विना कथं भागम् अग्रहीत्? अर्द्धाङ्गिनीं विना तु कश्चिदपि यज्ञः पूर्णः न भवति।

एवं प्रकारेण तारा निरन्तरं विलापं करोति स्म। बालेः मन्त्री अत्यन्तं कष्टेन बालेः मृतशरीरात् तारां पृथग् अकरोत्। धनुर्धारिणं रामं दृष्ट्वा तस्य समीपं गत्वा तारा अवदत् हे कमललोचन राम! भवान् वीरः, तेजस्वी, धर्मात्मा, महान् दानवीरः चास्ति। अहं भवन्तं भिक्षां याचे यद् भवान् येन बाणेन मम पत्युः प्राणान् अहरत् तेन बाणेन ममापि प्राणान् हरतु, येन अहमपि मम पत्युः समीपं गच्छेयम्।
- प्रदीपः!

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)

अध्याय - १८ , श्लोक - ०४

सोमवार , २८/११/२०२२, मार्गशीर्ष(अगहन), शुक्लपक्ष, पञ्चमी

   🚨 Join 🔜
https://t.me/PrashasakSamitiSamskritam

       🙏🚩🇮🇳🔱🏹🐚🕉️
चलच्चित्रसमुद्योगो नाभिनन्द्योऽप्यलङ्कृतः।
श्मशानवृक्षसङ्काशः पुष्पितोऽपि न मङ्गलः॥


अलंकृत होने पर भी चलचित्र का उद्योग (बॉलिवुड) अभिनन्दनीय नहीं है, क्योंकि श्मशान के वृक्ष के समान वह पुष्पित होने पर भी अमंगल होता है।

प्रेरणा - महाभारतम्।


दशवर्षाधिकः कालो व्यतीतो मे सुखावहः।
दूरदर्शनयन्त्रादिचलच्चित्रविवर्जितः॥


दूरदर्शन-यन्त्र (TV) और चलचित्र (Bollywood film) के बिना ही मेरा दस वर्षों से अधिक समय सुखपूर्वक बीत गया।


उद्योगं चलचित्रस्य कोऽवलम्बेत बोधितः।
को गेहं भुजगाकीर्णं जानन्नपि निषेवते॥


चलचित्र के उद्योग (बॉलिवुड) का पक्षधर कौन बुद्धिमान् पुरुष होगा? जानते हुए भी सर्पों से भरे घर में आश्रय कौन लेता है?

✍🏻 कुशाग्रानिकेतः