श्रीरामायणकथा, सुन्दरकाण्डम्।
(पञ्चमः सर्गः)
सीतारावणयोः संवादः।
(द्वितीयः खण्डः)
रावणस्य नीचवचनानि श्रुत्वा सीता मध्ये तृणं स्थापयित्वा अवदत् हे लङ्केश! त्वादृशाय विदुषे एतद् उचितं भवेत् यत् त्वं स्वमर्यादायाः उल्लङ्घनम् अकृत्वा मत्तः तव मनः अपसार्य त्वं तव राज्ञीः प्रीणीहि। स्मर्यतां यत् पापी पुरुषः कदापि स्वीये उद्देश्ये सफलः न भवति। अहम् उत्तमकुले जन्म लभमाना पतिपरायणा पत्नी अस्मि। त्वं मां कदापि मम सतीत्वात् विचलितां कर्तुं न शक्नोषि। मम प्राणेषु स्थितेषु तव एतं कुत्सितप्रस्तावम् अहं केनापि प्रकारेण न स्वीकरिष्यामि। यदि त्वयि ईषदपि न्यायबुद्धिः अभविष्यत् तर्हि त्वम् इतरस्त्रीणामपि तादृशं रक्षणम् अकरिष्यः यादृशं तव राज्ञीनां सतीत्वस्य रक्षणं करोषि।
किम् अस्यां लङ्कायाम् एवं कश्चिदपि बुद्धिमान् पुरुषः नास्ति यः त्वाम् एतां साधारणकथां बोधयेत्? त्वं तु आत्मानं नीतिमन्तं मन्यसे, पुनः नीतेः एतद् वाक्यं कथं विस्मरसि यद् यस्य राज्ञः इन्द्रियाणि तस्य वशे न भवन्ति, सः राजा कियान् वा ऐश्वर्यवान् भवतु नाम,अन्ते सः रसातलं गच्छति। तस्य सर्वस्वं नष्टं भवति। हे मूढ! त्वम् इदानीं यावत् माम् अभिज्ञातुं न अशक्नोः। अहं तव ऐश्वर्यम्, राज्यम्, सम्पत्तिः इत्यादीनां लोभेन वशीभूता नास्मि। अयमपि तव वृथा प्रलापः यदहं रघुकुलशिरोमणिना रामचन्द्रेण सह मेलितुं न शक्ष्यामि। अरे मूर्ख! सः तु सर्वदा मम हृदये निवसति। तस्मात् मां कश्चिदपि पृथक् कर्तुं न शक्नोति। तेन सह मम तादृशः सम्बन्धः अस्ति यादृशः सूर्यस्य सम्बन्धः तस्य प्रकाशेन सह भवति। अतः अहं तस्य अस्मि, सर्वदा च तस्यैव भूत्वा स्थास्यामि।
यदि त्वं सम्यग् विचिन्त्य एतद् मन्येथाः यत् त्वं माम् अपहृत्य कञ्चन भयङ्करापराधम् अकरोः, अपिच पुनः मां प्रत्यर्पयितुं यदि तव भीतिः अस्ति, तर्हि अहं तुभ्यम् अभयदानं यच्छन्ती वचनं ददामि यत् त्वं मां तस्य समीपं प्रापय, अहं तस्य पक्षतः त्वां क्षमां करिष्यामि। यदि त्वम् इदानीमपि तव कुकृत्ये दृढः भवेः तर्हि विश्वासं कुरु यत् तव मृत्युः निश्चितः अस्ति। श्रीरामस्य बाणात् त्वां कश्चिदपि रक्षितुं न शक्ष्यति। अतः अहं पुनः वदामि यत् त्वं सावधानः भव। स्वेन सह लङ्कायाः लङ्कावासिनां च विनाशं मा कारयिष्ठाः। अत्रैव तव समस्तराक्षसकुलस्य च कल्याणम् अस्ति।
- प्रदीपः!
🚨 Join 🔜 https://t.me/PrashasakSamitiSamskritam
🙏🚩🇮🇳🔱🏹🐚

This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)
अध्याय - १८ ; श्लोक - ३५
बुधवार, २८/१२/२०२२, पौष, शुक्लपक्ष, षष्ठी

🙏🚩🇮🇳🔱🏹🐚🕉️

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/EwPbg5ft3Z8
https://youtu.be/EwPbg5ft3Z8
YouTube
वार्ता: संस्कृत में समाचार | News in Sanskrit
This media is not supported in your browser
VIEW IN TELEGRAM
श्रीमद्भागवत गीता श्रवणामृत (मोक्षसन्यास योग)
अध्याय - १८ ; श्लोक - ३६ , ३७
बृहस्पतिवार, २९/१२/२०२२, पौष, शुक्लपक्ष, सप्तमी
🚨 Join 🔜 https://t.me/PrashasakSamitiSamskritam
🙏🚩🇮🇳🔱🏹🐚🕉️
अध्याय - १८ ; श्लोक - ३६ , ३७
बृहस्पतिवार, २९/१२/२०२२, पौष, शुक्लपक्ष, सप्तमी
🚨 Join 🔜 https://t.me/PrashasakSamitiSamskritam
🙏🚩🇮🇳🔱🏹🐚🕉️
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/I1wrXvTxkv4
https://youtu.be/I1wrXvTxkv4
YouTube
वार्ता : संस्कृत में समाचार | News in Sanskrit
DD News 24x7 | #BreakingNews & other #LiveUpdates | News in Hindi
DD News is India’s 24x7 news channel from the stable of the country’s Public Service Broadcaster, Prasar Bharati. It has the distinction of being India’s only terrestrial cum satellite News…
DD News is India’s 24x7 news channel from the stable of the country’s Public Service Broadcaster, Prasar Bharati. It has the distinction of being India’s only terrestrial cum satellite News…
श्रीरामायणकथा, सुन्दरकाण्डम्।
(षष्ठः सर्गः)
सीतारावणयोः संवादः २
सीतायाः तत् कठोरवचनं श्रुत्वा राक्षसराजः रावणः तस्यै प्रियदर्शिन्यै सीतायै एतद् अप्रियम् उत्तरम् अददात्, संसारेऽस्मिन् पुरुषः यथा यथा अनुनयविनयं करोति, तथा तथा सः सर्वेषां प्रियः भवति। किन्तु अहं त्वां यावद् मधुरं वचनं वदामि तावत् त्वं मम तिरस्कारं करोषि। त्वां प्रति यद् मम प्रेम अभवत् तत् प्रेम हि मां क्रोधात् निवारयति। हे सुमुखि! एतदेव कारणं यत् त्वं वधस्य तिरस्कारस्य योग्या चेदपि अहं तव वधं न करोमि। मिथिलेशकुमारि! त्वं यथा मां कटुवचनं वदसि, तस्य प्रतिकाररूपेण तव कृते प्राणदण्डः एव उचितः। हे सुन्दरि! अहं तुभ्यं तव कृते यम् अवधिम् अददां तदनुसारं मया इतोपि मासद्वयं यावत् प्रतीक्षा करणीया अस्ति। तत्पश्चात् मम शय्यां प्रति त्वया आगन्तव्यम् एव। स्मर्यतां यद् मासद्वयात् परं यदि मां तव पतिरूपेण न स्वीकुर्याः तर्हि मम पाचकः त्वां कर्तयित्वा खण्डं खण्डं करिष्यति।
राक्षसराजस्य रावणस्य वचनं श्रुत्वा पतिव्रता सीता अब्रवीत् , निश्चयेन हि तव नगरे तव मङ्गलम् इच्छन् कश्चिदपि पुरुषः नास्ति, यः त्वाम् एतस्मात् निन्दनकर्मणः निवारयेत्। अरे नीच राक्षस! त्वम् अमिततेजस्विनः श्रीरामस्य भार्यां यत् पापयुक्तं वचनम् अवदः, तस्य परिणामस्वरूपंं तव कृते यः दण्डः भवेत्, तस्मात् दण्डात् त्वं कुत्र गत्वा परित्राणं प्राप्स्यसि? अहं धर्मात्मनः श्रीरामस्य धर्मपत्नी महाराजस्य दशरथस्य च पुत्रवधूः अस्मि। रे दशानन रावण! त्वां भस्मसात् कर्तुं मम तेजः पर्याप्तम् अस्ति। केवलं श्रीरामस्य आज्ञा नास्ति, अपिच मम तपस्या सुरक्षिता भवतु इति विचार्य अहं त्वां भस्मसात् न करोमि। निश्चयेन तव वधं कर्तुं विधाता हि इमां विधाम् अरचयत्।
त्वं कियान् वीरः पराक्रमी चासि इत्यस्य मम आभासः तस्मिन् दिने अभवत्। तव पार्श्वे विशालसेना, बलम्, तेजः इत्यादीनि सर्वाणि सन्ति चेदपि यस्मिन् दिने त्वं मम पत्युः अनुपस्थितौ मां चोरयित्वा आनयः।किम् एतेन तव कापुरुषत्वं न प्रकाशयेत्?
सीतायाः मुखात् इत्थम् अप्रत्याशितम् अपमानजनकं च वचनं श्रुत्वा रावणस्य सम्पूर्णं शरीरं क्रोधेन कम्पते स्म। तस्य नेत्रे अङ्गारवद् रक्तवर्णे अभवताम्। सः महद् गर्जनं कृत्वा अवदत्, अन्यायिनः निर्धनमनुष्यस्य अनुसरणं कुर्वति हे नारि! सूर्यदेवः स्वेन तेजसा यथा अन्धकारं नाशयति तथा अहमपि अचिरेण तव नाशं कुर्याम्।
ततः परं रावणः काश्चन भयङ्करराक्षसीः (तासु राक्षसीषु एकाक्षी, एककर्णा, अश्वपदी, सिंहमुखी च) सम्बोधयन् आदिशत्, कथञ्चिद् वा भवतु, सीता मम अधीना भवतु तदर्थं तां विवशां कुरुत। यदि सा प्रेम्णा न मन्येत तर्हि तस्यै तावद् दण्डं यच्छत यावत् सा हस्तौ योजयित्वा मम समीपम् आगत्य क्षमायाचनं न कुर्यात्, मां च तस्याः पतिरूपेण न अङ्गीकुर्यात्।
राक्षसीभ्यः इत्थम् आज्ञां प्रदाय कामेन वशीभूतः क्रोधेन च व्याकुलः राक्षसराजः रावणः सीतां पश्यन् गर्जनं करोति स्म। अत्यन्तं क्रोधितं रावणं दृष्ट्वा राज्ञी मन्दोदरी धान्यमालिनी च शीघ्रं रावणस्य समीपम् आगत्य राज्ञी मन्दोदरी रावणं श्लिष्ट्वा अवदत् हे प्राणनाथ! भवान् किमर्थम् अस्याः कुरूपसीतायाः कृते एतावान् व्याकुलः भवति? तस्याः कृशः अधरः , अनाकर्षककान्तिः, लघुः आकारः इत्येतेषु किम् आकर्षणम् अस्ति? भवान् चलित्वा मया सह विहारं करोतु। एषा अभागिनी म्रियेत। तस्याः एतद् भाग्यं कुतः, या भवादृशेन अद्भुतपराक्रमिणा त्रिलोकविजेत्रा सह रमणं कृत्वा महत् सुखं प्राप्नुयात्। हे नाथ! या स्त्री भवन्तं नेच्छति तस्याः पृष्ठतः उन्मत्तः भूत्वा धावनेन कः लाभः? एतेन तु वृथैव मनसि दुःखं भवति।
एवमुक्त्वा यदा मन्दोदरी तम् अपसार्य अन्यत्र अनयत् तदा मेघवत् श्यामः बलवान् राक्षसः रावणः उच्चैः हसन् स्वीयं भव्यभवनं प्रति अगच्छत्।

अध्याय - १८ ; श्लोक - ३८
शुक्रवार, ३०/१२/२०२२, पौष, शुक्लपक्ष, अष्टमी